रत्नावलीनाटिकायाः काव्यसौन्दर्यसमीक्षणम्
DOI:
https://doi.org/10.3126/ss.v1i1.59807Keywords:
सूक्तिः, शृङ्गारः, करुणः, अलङ्कारःAbstract
महाकविर्हर्षवद्र्धनविरचिता चतुःसङ्ख्यकेष्वङ्केषु विभक्ता ‘रत्नावली’ नाटिका विश्वसंस्कृतसाहित्ये सुपरिचिता वर्तते । अनेकै रसभावादिभिः समलङ्कृतायामस्यां नाटिकायां काव्यसौन्दर्यवर्धकानां रसोऽलङ्कारछन्दसाम्, सूक्तेश्च कमनीयं सौन्दर्यं चकास्ति । एतादृशैः साहित्यिकसौन्दयैर्नाटकमिदं देदीप्यमानं प्रतीयते, पठनेन भावकानां मन आह्लादयति । तादृशस्य वैशिष्ट्यपूर्णस्य प्रस्तुतनाटकस्य साहित्यिकसौन्दर्यविश्लेषणकेन्द्रिते प्रकृते लेखेऽत्र समुपलब्धानां काव्यतत्त्वानां समीक्षा विहिताऽस्ति । गुणात्मिकायामनुसन्धानपद्धत्यामाधारितेऽस्मिननुसन्धाने द्वितीयकस्रोतसा प्राप्तानां सामग्रीणां संयोजनं वर्तते । रत्नावली स्वगुणगणेन प्राचीनकालादेव प्रसिद्धा । शास्त्रीयपद्धतिमाश्रित्य रचितमिदं रूपकं दशरूपके प्रसिद्धं वर्तते । रत्नावली दृश्यकाव्यदृष्ट्याऽभिनन्दनीया वर्तते । अत्रार्थप्रकृतयः, कार्यावस्थाः, सन्धयश्च वस्तुविन्यासस्यसाधनानि सन्ति । उदयनरत्नावल्योर्विवाहसम्पादनमेवास्य रूपकस्य प्रमुखमुद्देश्यमस्ति । अस्मिन्लेखे रत्नावल्यां कथावस्तुप्रयोगः, चरित्रचित्रणकौशलम्, अलङ्काररसादीनां प्रयोगस्थितिविषये विवेचनं कृतमस्ति । रसालङ्कारादिप्रयोगदृष्ट्या काव्यमिदं सफलं संलक्ष्यते । वस्तुरसालङ्कारध्वनि–गुणसूक्त्यादीनां कमनीयत्वमस्य नाटकस्य महनीयं सौन्दर्यं वर्तते ।