धात्वर्थे कौण्डभट्टमतपरिशीलनम्
DOI:
https://doi.org/10.3126/ss.v1i1.59806Keywords:
शाब्दबोधः, आख्यातः, धात्वर्थः, विशिष्टः, विशेष्यकः, साध्या, सिद्धाAbstract
इति विषये विदुषां महान् मतभेदो दृश्यते । पदवाक्यप्रमाणज्ञाः विशेषेणेह विवदन्ते गभीरम् । सर्वेऽपि स्वसिद्धान्तानुरूपं स्वाभिमतमगदन् । इह केचन फलं धात्वर्थाे व्यापारः प्रत्ययार्थ इति ब्रुवन्ति चेत् फलमात्रं धात्वर्थ आख्यातार्थाे भावना चान्ये । फलव्यापारौ धात्वर्थौ आख्यातार्थाे भावना इति केषाञ्चनानां मतम् । व्यापारमात्रस्य धात्वर्थत्वं फलञ्च प्रत्ययार्थ इति चानेके । फलव्यापारयोर्धात्वर्थत्वे कृतिराख्यातार्थ इत्युद्घोषयन्ति पुनरिह केचन । परञ्च वैयाकरणनयस्तु कश्चिद् भिन्न एव । स्वग्रन्थे भूषणसारे कौण्डभट्ट अवादीत् यत् फलव्यापारौ धातुवाच्यौ भवतः । आख्यातार्थश्चकर्तृकर्मसंख्याकालाः चत्वारः । कर्ताकर्मणी फलव्यापारयोराश्रयत्वेन वर्तेते । व्यापाराश्रयः कर्ता, फलाश्रयं कर्म इति । शाब्दबोधोपक्रमे कर्तृकर्मणी फलव्यापारयो–राधाराधेयभावेन विशेषेणे भवतः । तत्राख्यातार्थकर्तुः चैत्रादिनाऽभेदेनान्वयः, फलञ्चानुकूलत्वसम्बन्धेन व्यापारे विशेषणम् । यद्यपि “प्रकृतिप्रत्ययार्थाै सहार्थं ब्रुतस्तयोः प्रत्ययार्थस्यैव प्राधान्यम्” इति नियमस्तथापि “भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि” इति निरुक्तोक्तेव्र्यापार–मुख्यविशेष्यक–श्शाब्दबोध इति । कौण्डभट्टो धात्वर्थविषये एकवृन्तगतफलन्यायेन फलनिरुपिता व्यापार–निरूपिता च खण्डशः शक्तिं स्वीकरोति । नागेशस्तु फलविशिष्टे व्यापारे, व्यापारविशिष्टे फले शक्तिं स्वीकरोति ।शाब्दबोधश्च कर्तृप्रत्यये व्यापारमुख्यविशेष्यकः, कर्मप्रत्यये फलमुख्यविशेष्यको भवति ।