महाकविकालिदासविरचितस्य अभिज्ञानशाकुन्तल – नाटकस्य समीक्षणम्
DOI:
https://doi.org/10.3126/pj.v4i1.44936Keywords:
सम्भोगशृङ्गारः, प्रकृतिः, उपमा, ध्वनिः, रस :Abstract
प्रथमशतकसमुत्पन्नेन महाकविकालिदासेन विरचितमभिज्ञानशाकुन्तलनाटकं विश्वसाहित्येऽपिलब्धप्रतिष्ठं संलक्ष्यते । सप्तसङ्ख्यकेष्वङ्केषु विभाजितं नाटकमिदं सरसं हृदयाह्लादकं चानुभूयते ।विविधनाट्यतत्Œवैः समलङ्कृतेऽस्मिन् नाटके कथावस्तूनां समुचितं संयोजनं संलक्ष्यते । अस्मिन् लेखेमहाकविकालिदासस्याभिज्ञानशाकुन्तलनाटके कीदृशानां कथावस्तूनां प्रयोगः, चरित्रचित्रणं कीदृशमस्ति,नाट्यकाव्यपरम्परायामभिज्ञानशाकुन्तलस्यावदानं कीदृशमस्तीति तथ्यमत्र समीक्षितमस्ति । अत्र‘उपमा कालिदासस्य’, ‘काव्येषु नाटकं रम्यम्’ इत्यादिकालिदाससम्बद्धानां सूक्तीनां प्रयोगसन्दर्भस्यसमीक्षणमपि विहितमस्ति। अभिज्ञानशाकुन्तलनाटके रसध्वनिगुणरीत्यादीनां प्रयोगस्थितिविषयेऽपिविवेचनं कृतमस्ति । कविकालिदासेनाभिज्ञानशाकुन्तले प्रयुक्तस्य समाजस्य चित्रणमप्यत्र लेखेसङ्केतिमस्ति । स्वाभाविकरूपेण विषयवस्तूनां प्रतिपादने सरलसरसभाषासंयोजने च कविकालिदासःकुशलः संलक्ष्यते । ‘काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला । तत्रापि च चतुर्थोऽङ्कस्तत्रश्लोकचतुष्टयम् ।।’ इति कालिदाससम्बद्धा प्रसिद्धिः संस्कृतविद्वत्सु प्रसिद्धा वर्तते । कथं नाटकमिदंरमणीयं जातमित्यस्मिन् विषयेऽप्यनुसन्धानं कृतमस्ति । अत्र प्रयुक्ता सन्दर्भा नाटकानुकूलाः,भाषानुकूलाः, चरित्रानुकूलाः, विषयानुकूलाश्च दृश्यन्ते । अत्र सम्भोगशृङ्गारस्य विप्रलम्भशृङ्गारस्य चसफलः प्रयोगोऽवाप्यते । एते विषयाः काव्यस्य सौन्दर्यपक्षं भावपक्षं च परिपोषयितुं कुशलाविलोक्यन्ते । नाटकमिदं कथावस्तु–चरित्र–रस–ध्वनि–भाषाशैलीमाध्यमेन सहृदयान् आह्लादयितुंसामथ्र्ययुतं समवलोक्यते ।