पाणिनीयव्याकरणे षत्वविधायकानां सूत्राणामध्ययनम् {Paniniyabyakarane shatwabidhayakanam Sutranamadhyayanam}
DOI:
https://doi.org/10.3126/kdk.v2i1.43124Keywords:
षत्वविधायकसूत्रम्, षत्वविधानम्,, षत्वनिधेषः, षत्वादेशः, षत्वम्Abstract
वर्णानामतिशयितः सन्निधिः सामीप्येन यत्र उपस्थितिर्भवति स संहितापदेन ज्ञायते । संहितायामेव सन्धिर्भवति ।अतिनिकटस्थितयोः, द्वयोर्वर्णयोः पदयोर्वा मेलनम् अथवा अतिसमीपस्थितौ द्वौ वर्णौ शब्दौ वा मिलित्वा एकीभवनं सन्धिः ।शब्दधातुरूपनिर्माणार्थं वा सुबन्ततिङन्तकृत्यकृदन्ततद्धित–समस्तौपसर्गिकशब्दनिर्माणाय वाक्यरचनार्थञ्च सन्धेरुपयोगिताभवत्येव । स च सन्धि सिद्धान्तकौमुद्यां पञ्चधाऽस्ति । तत्र प्रथमोऽच्सन्धिः, द्वितीयो हल्सन्धिः, तृतीयः प्रकृतिभाव–सन्धिः, चतुर्थो विसर्गसन्धिः, पञ्चमस्तु स्वादिसन्धिः । सन्धिकार्ये षत्वविधानकार्यमपि प्राप्यते । अतः किं नाम षत्वम् ?पाणिनीयव्याकरणे षत्वविधेः प्रयोगः कथं क्रियते ? षत्वप्रक्रियायां के के नियमाः सन्ति ? इत्येतासां जिज्ञासानांशमनार्थमनुसन्धानमत्र विहितम् । शब्दव्युत्पादनक्रमे कस्मिनवस्थायां षत्वं भवति ? सन्धिकार्येषु षत्वं भवति नवेति सर्वत्र सन्देहो वरीवर्ति । तद्दूरीकरणाय षत्वविधानस्य सामान्यनियमप्रदर्शनपूर्वकं पाणिनीयव्याकरणे षत्वविधानस्यव्यवस्थाया विवेचनमत्र विधीयते । अष्टाध्याय्यामष्टमाध्याये द्वितीयपादे तृतीयपादे च प्रकरणद्वये पाणिनिना षत्वविषयिणीचर्चा विहिता । पाणिनीयाष्टाध्याøयामष्टमाध्याये द्वितीयपादे व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ८।२।३६।। इतिसूत्रादारभ्य तृतीयपादे सहेः पृतनर्ताभ्यां च ८।३।१०९।। इति सूत्रपर्यन्तं षत्वविधायकानि द्विपञ्चाशत्–(५२) मितसङ्ख्यकानिसूत्राणि पाणिनिना प्रस्तुतानि सन्ति । सिद्धान्तकौमुद्यां नैकत्रस्थले षत्वविषयिणी चर्चा विद्यते । तद्ग्रन्थाध्ययनेन षत्वविषयेविचिकित्सा सदैव वरीवर्ति । अतोऽहमपि लेखेऽस्मिन् तानि सूत्राण्याधृत्य षत्वविषयस्य चर्चां विदधे । अष्टाध्याय्यां येनक्रमेण सूत्राण्युपस्थापितानि सन्ति तेनैव क्रमेणाऽत्र प्रस्तौमि ।
Downloads
Downloads
Published
How to Cite
Issue
Section
License
This license enables reusers to distribute, remix, adapt, and build upon the material in any medium or format for noncommercial purposes only, and only so long as attribution is given to the creator.