बौद्धदर्शनविकासाय महाकवेरश्वघोषाचार्यस्ययोगदानम्

Authors

  • सोमनाथ शर्मा बौद्धदर्शनविभागः, नेपालसंस्कृतविश्वविद्यालयः, वाल्मीकिविद्यापीठम्

DOI:

https://doi.org/10.3126/haimaprabha.v23i1.66740

Keywords:

आन्वीक्षिकी, त्रिपिटक, महायानम्, सर्वास्तिवादः, हीनयानम्

Abstract

आचार्याश्वघोषः महान् दार्शनिकः, सङ्गीतज्ञः, नाटककारः, महाकविश्चासीत् । महाकवेरश्वघोषस्य जीवनवृत्तविषये चीनतिब्बतादिषु बौद्धदेशेषु पर्याप्तरूपेण सामग्र्यः प्राप्यन्ते । महाकवेरश्वघोषस्य जीवनवृत्तमाधारीकृत्य रचितस्य सौन्दरनन्दमित्यस्य ग्रन्थस्यावलोकनेन ज्ञायते यदयं महाकवि अश्वघोषः महापण्डित–महाराजेत्यादिभिः उपाधिभिरलङ्कृत इति । महाकवेरश्वघोषस्य नामकरणविषये प्रामाणिकरूपेण कुत्राप्य'ल्लेखो न प्राप्यते,तथापि अनेकैराचार्यैः इदं भवितुं शक्नोति वेति रूपेणैव नामकरणं कृतं दृश्यते । महाकवेरश्वघोषस्य कृतिषु मध्ये बुद्धचरित–सौन्दरनन्द–बज्रसूचीप्रभृतयः ग्रन्थाः मुख्याःमन्यन्ते आचार्याः । केषाञ्चन विदुषां मतं वर्तते यत् अयमश्वघोषः महायानसम्प्रदायस्य तत्सिद्धान्तस्य च प्रचारक आसीदिति । तिब्बतीपरम्परायामयं सर्वास्तिवादित्वेन स्वीक्रियते ।  एतेन अश्वघोषः हीनयानसम्प्रदायस्य वर्तत इति ज्ञायते । अयमालेख आगमनविधिमवलम्ब्य प्रस्तुतो विद्यते । बौद्धदर्शनविकासाय महाकवेरश्वघोषस्य योगदानं तत्कृतीनांच वैशिष्ट्यं प्रतिपाद्यान्त्ये निष्कर्षः प्रदत्तः वर्तते । अस्मान्निष्कर्षाद्बौद्धदर्शनक्षेत्रे अश्वघोषस्य योगदानविषयकचिन्तने सारल्यं भविष्यतीत्यपेक्ष्यते ।

[Acharya Ashwaghosh was a great philosopher, musician, dramatist and poet. There are many materials about the biography of Mahakavi Ashwaghosha in Buddhist countries like China and Tibet. Looking at the book called Soundarananda based on the biography of Mahakavi Ashwaghosha, it shows that Mahakavi Ashwaghosha was honored with titles like Mahapandit and Maharaja. There is no authenticity of the name of Mahakavi Ashwaghosha, however, many scholars seem to have named him on the basis of probability. Acharya considers Buddhacharita, Soundarananda, Bajrasuchi and other books to be the most important works of Mahakavi Ashwaghosha. Some scholars believe that Ashwaghosha was the propagator of the Mahayana sect and its doctrines. In the Tibetan tradition, he is accepted as a universalist. This shows that Ashwaghosha belonged to the Hinayana sect. The contribution of Mahakavi Ashwaghosha in the development of Buddhadarshan and the characteristics of his works are discussed in this article. This article makes it easier to know about Ashwaghosha's contribution in the field of Buddhist philosophy.]

Downloads

Download data is not yet available.
Abstract
98
PDF
39

Author Biography

सोमनाथ शर्मा, बौद्धदर्शनविभागः, नेपालसंस्कृतविश्वविद्यालयः, वाल्मीकिविद्यापीठम्

उपप्राध्यापकः

Downloads

Published

2024-06-17

How to Cite

शर्मा स. (2024). बौद्धदर्शनविकासाय महाकवेरश्वघोषाचार्यस्ययोगदानम्. Haimaprabha, 23(1), 172–183. https://doi.org/10.3126/haimaprabha.v23i1.66740

Issue

Section

Articles