नागेशकौण्डभट्टमतयोः लकारार्थसमीक्षणम् [Nagesh Kaundabhatta Tayo: For the sake of review]
DOI:
https://doi.org/10.3126/haimaprabha.v21i01.44860Keywords:
अनद्यतनः, बोधकता, श्वसनः, हेतुहेतुमद्भावः, निकायःAbstract
शब्दशास्त्रे प्रतिपादितानां दशलकाराणां ये ये अर्थाः सन्ति तेषामर्थानां शास्त्रसम्मतं व्याख्यानमत्र कृतमस्ति । व्याकरणे दशलकाराः सन्ति तथा च भिन्न–भिन्नार्थेषु तेषां निरूपणं विहितमस्ति । पूर्वं तावत् लडादयः षट्टिल्लकाराः क्रमशः वर्तमानादिष्वर्थेषु विधीयन्ते । अर्थादेष्वर्थेषु लडादीनां विधानं भवतीति । अर्थात् लकराणामेव वाचकत्वमित्यभिप्रायः । यदि लकाराणां वाचकत्वं स्वीक्रियते तर्हि शक्यतावच्छेकत्वं भवति लत्वं तेन लाघवं प्रतिभाति । लादेशानां तिङादीनां वाचकत्वे तु नानाशक्ततावच्छेदकत्वस्वीकारे महद्गौरवम् । अत्र च लकाराणां वाचकत्वस्वीकाराय लाघवरूपं प्रमाणम्, तिबादीनां वाचकत्वे तु उच्चार्यमाणः शब्दः सम्प्रत्यायको भवति इति भाष्यप्रमाणमेव । तेनोभयोर्वाचकत्वपक्षे युक्तेर्विद्यमानत्वाद् यस्य कस्यापि भवतु वाचकत्वमिति न विषेशोऽऽग्रहः । सामान्यतया कर्ता, कर्म, संख्या, काल इति चत्वारो लाकाराणामर्थाः भवन्ति । आचार्यनागेशस्तु एष्वर्थेषु लादेशानां तिङादीनां शक्तिः स्वीकरोति । लोके लादेशानां तिबादीनामेव प्रयोगो दृश्यते, न तु लकाराणामिति । तथा च भाष्यकारोऽपि ब्रवीति उच्चार्यमाणः शब्दः संप्रत्यायको भवति इति तेन लोके प्रयुक्तानामेव तिङादीनां वाचकत्वमुपयुक्तमिति प्रतिभाति । भवतु तावद्यस्य कस्यापि वाचकत्वं तथापि सामान्यतया यथा पूर्वं तावद् कालो द्विविधः अद्यतनः, अनद्यतनश्चेति । तत्र प्रथमस्तावद् भूतभविष्यत्वर्तमानभेदेन त्रिविधः । द्वितीये च वर्तमानत्वासम्भवाद् भूतभविष्यत्भेदेन द्विविधः एवेति । आचार्यभर्तृहरिस्तु स्वकीयवाक्यपदीयग्रन्थे कालस्य व्यवहारिकदृष्ट्या एकादशभेदाः सन्तीति वर्णयति । तथा च सामान्यतया वर्तमानत्वे लट्, भूतत्वमात्रे लुङ्, भविष्यत्त्वमात्रे लृट्, हेतुहेतुमद्भावाद्यधिकार्थविवक्षायां लृङ्, अनद्यतने भूतत्वेन विवक्षिते लङ्, पुनश्च तत्रैव परोक्षत्वविवक्षायां लिट् तथा चानद्यतनभविष्यति लुडिति एवं प्रकारेणाः लकाराः भवन्तीति विज्ञेयम् । एतेषां दशलकाराणां सोदाहरणपूर्वकं परिचयं निरूप्य लकारसामान्यस्य तथा लकारविशेषाणां वार्थानां विवेचनमत्रास्ति ।
Downloads
Downloads
Published
How to Cite
Issue
Section
License
This work is licensed under a Creative Commons Attribution 4.0 International License.
© Nepal Sanskrit University, Janata Campus, RMC, Bijauri Dang, Nepal