संस्कृतसाहित्यविकासे नेपालदेशीयानां संस्कृतमहाकाव्यानां योगदानम्
DOI:
https://doi.org/10.3126/dristikon.v15i1.77144Keywords:
नैपालकसंस्कृतमहाकाव्यम्, महाकाव्यसिद्धान्तः, हरिकेलिमहाकाव्यम्, कार्तवीर्योदय:Abstract
संस्कृतसाहित्यं समृद्धं विधातुं प्राकृतिकदृष्ट्यातिरमणीयस्य बुद्धस्य जन्मभूमेर्नेपालदेशस्य महद्योगदानमस्ति । नेपालभारतादिषु विविधदेशेषु विरचितैर्महाकाव्यनाटकगद्यकाव्यादिभिः संस्कृतवाङ्मयं समुन्नतं जातमस्ति । नेपालदेशे विरचितानां महाकाव्यानामपि संस्कृतवाङ्मयस्य श्रीवृद्धये महती भूमिका दृश्यते । रामायणमहाभारतादिभिर्ग्रन्थैर्विकसितं संस्कृतसाहित्यमद्यापि विकासवर्त्मनि धावन्नस्ति । महाकाव्यलेखनपरम्परायां अश्वघोषस्य सौन्दरानन्दम्, बुद्धचरितम्, कालिदासस्य कुमारसम्भवमहाकाव्यम्, रघुवंशमहाकाव्यम्, भारवेः किरातार्जुनीयम्, माघस्य शिशुपालवधम्, श्रीहर्षस्य नैषधीयचरितञ्चेति महाकाव्यानि सुप्रसिद्धानि सन्ति । आर्षमहाकाव्यप्रणयनानन्तरं रसभावप्रधानानि सुकुमारमार्गि-विचित्रमार्गिमहाकाव्यानि च रचितानि दृश्यन्ते । नैपालैः संस्कृतमहाकविभिः प्राचीनकालादेव विविधानि महाकाव्यानि विरचय्य संस्कृतवाङ्मयं संस्कृतसाहित्यञ्च बहूपकृतं विलोक्यते । नैपालसंस्कृतमहाकाव्यपरम्परायां वंशमणेर्हरिकेलिमहाकाव्यस्य, सुकृतिदत्तपन्तस्य कार्तवीर्योदयमहाकाव्यस्य च काव्यकलादृष्ट्या उत्कृष्टं स्थानं वर्तते, एतानि महाकाव्यानि समुत्कृष्टैः संस्कृतमहाकाव्यैः सह प्रतिस्पर्धीन्यपि सन्ति । नैपालसंस्कृतमहाकाव्यानां विषयवस्तु विविधक्षेत्रसम्बद्धं वर्तते । अधिकानां महाकाव्यानां कथावस्तु पुराणेतिहाससम्बद्धं दृश्यते । सामाजिकक्षेत्रे लब्धप्रतिष्ठस्य सज्जनस्य विषये रचितानि महाकाव्यान्यपि दृश्यन्ते । ऐतिहासिक-पौराणिक-विषयवस्तून्यपि कविप्रतिभया वर्णनचातुर्येण चमत्कारितया प्रस्तुतानि सन्ति । एतानि महाकाव्यानि भामहविश्वनाथादिभिः प्रस्तुतं महाकाव्यलक्षणमनुसृत्य लिखितानि सन्ति । एभिर्महाकाव्यैस्तात्कालिक-सामाजिकजनजीवनस्य चित्रणमपि प्रस्तुतं विद्यते । आदर्शसमाजनिर्मित्यै महाकाव्यानि अपि नूनं सहायकानि सिद्ध्यन्ति । नैपालकैर्महाकविभिर्विरचितानामेतादृशानां महाकाव्यानां संस्कृतमहाकाव्यपरम्परायां कीदृशं स्थानमस्तीति समस्यायामयं लेखः केन्द्रितो विद्यते । संस्कृतवाङ्मयस्य समृद्धये नैपालैर्महाकविभिर्विरचितानां महाकाव्यानां कीयदवदानमस्तीति विषये लेखोऽयं तथ्यं प्रकाशयति । अत्र महाकाव्यसिद्धान्तदृशा नैपालानां संस्कृतमहाकाव्यानां समीक्षणं कृतमस्ति । विश्वसंस्कृतसाहित्यसमक्षं नैपालानां महाकाव्यानामुपस्थितिः कीदृशी अस्तीत्यस्मिन् विषयेऽधुनापर्यन्तं विस्तृतरूपेण केनापि समीक्षकेन प्रकाशितं नैवावलोक्यते । अप्रकाशितस्य विषयस्यास्य प्रकाशनं लेखस्योद्देश्यमस्ति । अत्र नैपालकैः संस्कृतकविभिर्विश्वसंस्कृतसाहित्यस्य समृद्धये प्रदत्तस्य योगदानस्य प्रकाशनं विहितमस्ति । लेखेऽस्मिन् वर्णनात्मक-व्याख्यात्मकविधिना च सामग्रीणां विश्लेषणं कृतं विद्यते । मूलतः संस्कृतवाङ्मयस्य विकासे सम्बर्द्धने च नैपालानां संस्कृतमहाकाव्यकाराणां योगदानस्य समीक्षणमेवास्य लेखे प्रस्तुतमस्ति ।
Downloads
Downloads
Published
How to Cite
Issue
Section
License
© Research Management Cell, Mahendra Multiple Campus, Dharan